|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.24. अध्यायः 024
Mahabharata - Udyoga Parva - Chapter Topics
सञ्जयेन युधिष्ठिरप्रश्नानामुत्तरदानपूर्वकं धृतराष्ट्रसन्देशश्रवणविधानम् ॥ 1 ॥
Mahabharata - Udyoga Parva - Chapter Text
सञ्जय उवाच। 5-24-0x(3424)(32427)
यथाऽऽत्थ मे पाण्डव तत्तथैव
कुरून्कुरुश्रेष्ठ जनं च पृच्छसि।
अनामयास्तात मनस्विनस्ते
कुरुश्रेष्ठान्पृच्छसि पार्थ यांस्त्वम् ॥ 5-24-1(32428)
सन्त्येव वृद्धाः साधवो धार्तराष्ट्रे
सन्त्येव पापाः पाण्डव तस्य विद्धि।
दद्याद्रिपुभ्योऽपि हि धार्तराष्ट्रः
कुतो दायांल्लोपयेद्ब्राह्मणानाम् ॥ 5-24-2(32429)
यद्युष्मासु वर्ततेऽसावधर्म्य-
मद्रुग्धेषु द्रुग्धवत्तन्न साधु।
मित्रध्रुक् स्याद्धृतराष्ट्रस्य पुत्रो
युष्मान्द्विपन्साधुवृत्तानसाधुः ॥ 5-24-3(32430)
स चापि जानाति भृशं च तप्यते
शोचत्यन्तः स्थविरोऽजातशत्रो।
शृणोति हि ब्राह्मणानां समेत्य
मित्रद्रोहः पातकेभ्यो यरीयान् ॥ 5-24-4(32431)
स्मरन्ति तुभ्यं नरदेव सङ्गमे
युद्धे च जिष्णोश्च युधां प्रणेतुः।
समुद्धुष्टे दुन्दुभिशङ्खशब्दे
गदापाणिं भीमसेनं स्मरन्ति ॥ 5-24-5(32432)
माद्रीसुतौ चापि तथाऽऽजिमध्ये
सर्वा दिशः संपतन्तौ स्मरन्ति।
सेनां वर्षन्तौ शग्वैपरजमं
महारथौ समरे दुष्प्रकम्पौ ॥ 5-24-6(32433)
न त्वेव मन्ये पुरुषस्य राज-
न्ननागतं ज्ञायते यद्भविष्यम्।
त्वं चेत्तथा सर्वधर्मोपपन्नः
प्राप्तः क्लेशं पाण्डव कृच्छ्ररूपम्।
त्वमेवैतत्कृच्छ्रगतश्च भूयः
समीकुर्याः प्रज्ञयाऽजातशत्रो ॥ 5-24-7(32434)
न कामार्थं सन्त्यजेयुर्हि धर्मं
पाण्डोः सुताः सर्व एवेन्द्रकल्पाः ।
त्वमेवैतत्प्रज्ञयाऽजातशत्रो
समीकुर्या येन शर्माप्नुयुस्ते ॥ 5-24-8(32435)
धार्तराष्ट्राः पाण्डवाः सृञ्जयाश्च
ये चाप्यन्ते सन्निविष्टा नरेन्द्राः ।
यन्मां ब्रवीद्धृतराष्ट्रो निशाया-
मजातशत्रो वचनं पिता ते ॥ 5-24-9(32436)
सहामात्यः सहपुत्रश्च राजन्
समेत्य तां वाचमिमां निबोध ॥ ॥ 5-24-10(32437)
इति श्रीमन्महाभारते उद्योगपर्वणि सञ्जययानपर्वणि चतुविंशोऽध्यायः ॥
Mahabharata - Udyoga Parva - Chapter Footnotes
5-24-4 गरीयानिति ...... 5-24-5 ........ 5-24-7 अनागतं अज्ञातं अदृष्टमित्यर्थः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|